(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.100. अध्यायः 100
Mahabharata - Udyoga Parva - Chapter Topics
नारदेन दैत्यदानवायतनं हिरण्यपुरमुपेत्य मातलिंप्रति तत्र वरान्वेषणचोदनम् ॥ 1 ॥ मातलिना दैत्यदानवानां देवकुलनित्यविरोधितया परपक्षानुबन्धानभिरुचिवचनम् ॥ 2 ॥
Mahabharata - Udyoga Parva - Chapter Text

नारद उवाच। 5-100-0x(3687)(35362)
हिरण्यपुरमित्येतत्ख्यातं पुरवरं महत्।
दैत्यानां दानवानां च मायाशतविचारिणाम् ॥ 5-100-1(35363)
अनल्पेन प्रयत्नेन निर्मितं विश्वकर्मणा ।
मयेन मनसा सृष्टं पातालतलमाश्रितम् ॥ 5-100-2(35364)
अत्र मायासहस्राणि वविकुर्वाणा महौजसः ।
दानवा निवसन्ति स्म शूरा दत्तवराः पुरा ॥ 5-100-3(35365)
नैते शक्रेण नान्येन यमेन वरुणेन वा।
शक्यन्ते वशमानेतुं तथैव धनदेन च ॥ 5-100-4(35366)
असुराः कालखञ्जाश्च तथा वुष्णुपदोद्भवाः ।
नैर्ऋता यातुधानाश्च ब्रह्मपादोद्भवाश्च ये ॥ 5-100-5(35367)
दंष्ट्रिणो भीमवेगाश्च वातवेगपराक्रमाः ।
मायावीर्योपसंपन्ना निवसन्त्यत्र मातले ॥ 5-100-6(35368)
निवातकवचा नाम दानवा युद्धदुर्मदाः ।
जानासि च यथा शक्रो नैताञ्शक्रोति बाधितुं ॥ 5-100-7(35369)
बहुशो मातले त्वं च तव पुत्रश्च गोमुखः ।
निर्भग्नो देवराजश्च सहपुत्रः शचीपतिः ॥ 5-100-8(35370)
पश्य वेश्मानि रौक्माणि मातले राजतानि च ।
कर्मणा विधियुक्तेन युक्तान्युपगतानि च ॥ 5-100-9(35371)
वैदूर्यमणिचित्राणि प्रवालरुचिराणि च ।
अर्कस्फटिकशुभ्राणि वज्रसारोञ्ज्वलानि च ॥ 5-100-10(35372)
पार्थिवानीव चाभास्ति पद्मरागमयानि च।
शैलानीव च दृश्यन्ते दारवाणीव चाप्युत ॥ 5-100-11(35373)
सूर्यरूपाणि चाभान्ति दीप्ताग्निसदृशानि च ।
मणिजालविचित्राणि प्रांशूनि निबिडानि च ॥ 5-100-12(35374)
नैतानि शक्यं निर्देष्टु रूपतो द्रव्यतस्तथा ।
गुणतश्चैव सिद्धानि प्रमाणगुणवन्ति च ॥ 5-100-13(35375)
आक्रीडान्पश्य दैत्यानां तथैव शयनान्युत ।
रत्नवन्ति महार्हाणि भाजनान्यासनानि च ॥ 5-100-14(35376)
जलदाभांस्तथा शैलांस्तोयप्रस्रवणानि च ।
कामपुष्पफलांश्चापि पादपान्कापचारिणः ॥ 5-100-15(35377)
मातले कश्चिदत्रापि रुचिरस्ते वरो भवेत् ।
अथवाऽन्यां दिशं भूमेर्गच्छाव यदि मन्यसे ॥ 5-100-16(35378)
मातलिस्त्वब्रवीदेनं भाषमाणं तथाविधम् ।
देवर्षे नैव मे कार्यं विप्रियं त्रिदिवौकसाम् ॥ 5-100-17(35379)
नित्यानुषक्तवैरा हि भ्रातरो देवदानवाः ।
परपक्षेण संबन्धं रोचयिष्याम्यहं कथम् ॥ 5-100-18(35380)
अन्यत्र साधु गच्छाव द्रष्टुं नार्हामि दानवान् ।
जानामि तव चात्मानं हिंसात्मकमनं तथा ॥ ॥ 5-100-19(35381)

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि शततमोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-100-11 शैलानि शिलामयानि ॥ 5-100-14 आक्रीडान् क्रीडास्थानानि ॥ 5-100-19 हिंसात्मकमनं हिंसाप्रधानानां दैत्यानां कमनं अपेक्षणीयम्। जानामि तु तवात्मानमिच्छसे कलहानिति इति कo पाठः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.